वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: प्रजापतिः छन्द: विराडनुष्टुप् स्वर: गान्धारः काण्ड: 0

इ꣢न्द्रं꣣ ध꣡न꣢स्य꣣ सा꣡त꣢ये हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजितम् । स꣡ नः꣢ स्वर्ष꣣द꣢ति꣣ द्वि꣢षः꣣ स꣡ नः꣢ स्वर्ष꣣द꣢ति꣣ द्वि꣡षः꣢ ॥६४७

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः ॥६४७

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯म् । ध꣡न꣢꣯स्य । सा꣣त꣡ये꣢ । ह꣣वामहे । जे꣡ता꣢꣯रम् । अ꣡प꣢꣯राजितम् । अ । प꣣राजितम् । सः꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ । सः꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ ॥६४७॥

सामवेद » - महानाम्न्यार्चिकः » मन्त्र संख्या - 647 | (कौथोम) 7 | (रानायाणीय) 7


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा का आह्वान किया गया है।

पदार्थान्वयभाषाः -

(इन्द्रम्) शूरवीर परमैश्वर्यशाली परमेश्वर को हम योगाभ्यासी जन (धनस्य) विवेकख्यातिरूप ऐश्वर्य की (सातये) प्राप्ति के लिए (हवामहे) पुकारते हैं। कैसे परमेश्वर को? (जेतारम्) जो शत्रुओं और विघ्नों का विजेता, तथा (अपराजितम्) करोड़ों भी शत्रुओं एवं विघ्नों से न हारनेवाला है। (सः) वह विजेता परमेश्वर (नः) हमें (द्विषः) अविद्या, अस्मिता, राग, द्वेष और अभिनिवेश रूप पञ्च क्लेशों से (अति स्वर्षत्) पार कर दे, (सः) वह अपराजित परमेश्वर (नः) हमें (द्विषः) व्याधि, स्त्यान, संशय, प्रमाद, आलस्य, अविरति, भ्रान्तिदर्शन, अलब्धभूमिकत्व, अनवस्थितत्त्व इन चित्तविक्षेपरूप योगमार्ग के विघ्नों से (अति स्वर्षत्) पार कर दे ॥७॥

भावार्थभाषाः -

परमेश्वर की ही कृपा से योगाभ्यासी जन योग के विघ्नों को जीतकर विवेकख्याति द्वारा मोक्ष प्राप्त करने योग्य होते हैं ॥७॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मानमाह्वयति।

पदार्थान्वयभाषाः -

(इन्द्रम्) शूरं परमैश्वर्यशालिनं परमेश्वरम्, वयं योगाभ्यासिनः (धनस्य) विवेकख्यातिरूपस्य ऐश्वर्यस्य (सातये) प्राप्तये (हवामहे) आह्वयामः। कीदृशं परमेश्वरम् ? (जेतारम्) शत्रूणां विघ्नानां च विजेतारम्, किञ्च (अपराजितम्) कोटिसंख्यकैरपि शत्रुभिर्विघ्नैश्च अपराभूतम्। (सः) विजेता परमेश्वरः (नः) अस्मान् (द्विषः) अविद्यास्मितारागद्वेषाभिनिवेशेभ्यः पञ्चक्लेशेभ्यः (अति स्वर्षत्) अतिपारयेत्, (सः) अपराजितः परमेश्वरः (नः) अस्मान् (द्विषः) व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शना- लब्धभूमिकत्वानव स्थितत्वात्मकचित्तविक्षेपरूपेभ्यो योगमार्गान्तरायेभ्यः (अति स्वर्षत्) अतिपारयेत् ॥७॥

भावार्थभाषाः -

परमेश्वरस्यैव कृपया योगाभ्यासिनो जना योगविघ्नान् विजित्य विवेकख्यात्या कैवल्यमधिगन्तुमर्हन्ति ॥७॥